सामग्री पर जाएँ

मर्त्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मर्त्यः, पुं, (म्रियतेऽत्रेति । मर्त्तो भूलोकस्तत्र भवः । मर्त्त + यत् । यद्वा, मर्त्त एव यदित्यमर- टीकायां भरतः ।) मनुष्यः । इत्यमरः । २ । ६ । १ ॥ (यथा, ब्रह्मवैवर्त्ते । २ । १ । २६ । “गृहे च गृहलक्ष्मीश्च मर्त्त्यानां गृहिणां तथा ॥”) मध्यमलोकः । इति जटाधरः ॥ (क्ली, शरीरम् । यथा, भागवते । ३ । ३३ । ३१ । “तस्यास्तद्योगविधुतमार्त्यं मर्त्यमभूत् सरित् ॥”)

"https://sa.wiktionary.org/w/index.php?title=मर्त्यः&oldid=156482" इत्यस्माद् प्रतिप्राप्तम्