सामग्री पर जाएँ

मर्द्दनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मर्द्दनम्, क्ली, (मृद् + भावे ल्युट् ।) अङ्गमर्द्दनम् । गाटेपा इति भाषा ॥ तत्पर्य्यायः । संवाह- नम् २ । इत्यमरः । ३ । २ । २२ ॥ सम्बलम् ३ । इति शब्दरत्नावली ॥ (यथा, “यत् पुनर्बहिःस्पर्शना- श्रित्याभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्द्दनाद्यैरामयान् प्रमार्ष्टि तद्वहिः परिमार्ज्जनम् ॥” इति चरके सूत्रस्थाने ११ अध्यायः ॥) अस्य गुणाः । भ्रम- हरत्वम् । निद्राशुक्रसुस्वप्रदत्वम् । मांसरक्त- त्वक्प्रसन्नकारित्वम् । वायुकफनाशित्वञ्च । इति राजवल्लभः ॥ चूर्णनम् । इति मृदधात्वर्थदर्श- नात् ॥ (कदनम् । यथा, भागवते । ३ । ४ । २ । “तेषां मैरेयदोषेण विषमीकृतचेतसाम् । निम्लोचति रवावासीत् वेणूनामिव मर्द्दनम् ॥” मृद् + ल्युः । मर्द्दनकारके, त्रि । यथा, महा- भारते । १३ । १४ । ३७२ । “द्रक्ष्ये क्षितिजसङ्घानां मर्द्दनं त्रिदशेश्वरम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=मर्द्दनम्&oldid=156484" इत्यस्माद् प्रतिप्राप्तम्