सामग्री पर जाएँ

मर्म्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मर्म्म, [न्] क्ली, (मृ + “सर्व्वधातुभ्यो मनिन् ।” उणा ० ४ । १४४ । इति मनिन् ।) स्वरूपम् । तत्त्वम् । यथा, नैषधे । २ । ९ । “मृगया न विगीयते नृपै- रपि धर्म्मागममर्म्मपारगैः । स्मरसुन्दर ! मां यदत्यज स्तव धर्म्मः सदयो दयोज्ज्वलः ॥” सन्धिस्थानम् । इति लिङ्गादिसंग्रहे अमर- भरतौ ॥ जीवस्थानम् । इति राजनिर्घण्टः ॥ * ॥ अथ मर्म्माणि । “सन्निपातः शिरास्नायुसन्धिमांसास्थिसम्भवः । मर्म्माणि तेषु तिष्ठन्ति प्राणाः खलु विशेषतः ॥ सप्तोत्तरं शतं सन्ति देहे मर्म्माणि देहिनाम् । तान्येकादश मांसे स्युरष्टावस्थिषु सन्ति हि ॥ सन्धीनां विंशतिस्तानि स्नायूनां सप्तविंशतिः । चत्वारिंशत्तथैकञ्च शिरामर्म्माणि तत्र तु ॥ द्वाविंशतिः सक्थियुगे तावन्त्येव भुजद्वये । द्बादशोरसि कुक्षौ च पृष्ठदेशे चतुर्द्दश ॥ ग्रीवाया ऊर्द्ध्वभागे तु सप्तत्रिंशन्मतानि हि ॥ मर्म्माणि तानि सन्ति पञ्चधा भवन्ति । तान्याह । सद्यःप्राणहराणि स्युर्मर्म्माण्येकोनविंशतिः । मर्म्मदेशास्त्रयस्त्रिंशत् स्युः कालान्तरमारकाः ॥ चत्वारिंशच्च चत्वारि वैकल्यं जनयन्ति हि । मर्म्माष्टकं रुजाकारि विशल्यघ्नं त्रिकं मतम् ॥ शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठसिरागुदम् । हृदयं वस्तिनाभ्यौ च सद्यो घ्नन्ति हतानि चेत् ॥ शृङ्गाटकानि घ्राणश्रोत्राक्षिजिह्वासन्तर्पकाणां शिरामुखानां शिरसो मध्ये संयोगस्थानं तानि चत्वारि शिरामर्म्माणि चतुरङ्गुलप्रमाणानि हतानि सन्ति सद्योमारकाणि । अधिपतिः । मस्तकस्याभ्यन्तरे सन्धिसिरयोः सन्निपात उपरिष्टाद्रोमावर्त्तः स एकः सन्धिमर्मेदं अर्द्धा- ङ्गुलप्रमाणं सद्योमारकम् । शङ्खौ भ्रुवोरन्तोपरि कर्णललाटमध्ये ते द्वे अस्थिमर्म्मणी अर्द्धा- ङ्गुले सद्योमारके । कण्ठशिराः मातृकाः ग्रीवाया उभयपार्श्वयोश्चतस्रश्चतस्रः शिरास्ता अष्टौ शिरामर्म्माणि चतुरङ्गुलानि सद्योमार- जीवेत् पाकात् पतितशल्यो वा उद्धृतशल्यस्तु म्रियेत अतएव विशल्यमुद्धृतशल्यं हन्तीति विशल्यघ्नं मर्म्म । स्थापनी एका भ्रुवोर्म्मध्ये सिरामर्म्मेदमर्द्धाङ्गुलं विशल्यघ्नम् । सप्तरात्रान्तरे हन्युः सद्यः प्राणहराणि हि । कालान्तरप्राणहरं पक्षे मासे च मारकम् ॥ सद्यःप्राणहरं चान्ते विद्धं कालेन मारयेत् । कालान्तरप्राणहरमन्ते विद्धन्तु दुःखदम् ॥ अन्ते मर्म्मसमीपे । मर्म्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम् । प्रायेण ते कृच्छ्रतमा भवन्ति वैद्येन यत्नैरपि साध्यमानाः ॥” इति भावप्रकाशः ॥ * ॥ मर्म्मस्पर्शनिषेधो यथा, -- “परक्षेत्रे गां चरन्तीं न चाचक्षीत कस्यचित् । न संवसेत् सूतके च न कं वै मर्म्मणि स्पृशेत् ॥” इति कूर्म्मपुराणे उपविभागे १५ अध्यायः ॥ (“सप्तोत्तरं मर्म्मशतम् । तानि मर्म्माणि पञ्चात्मकानि । तद्यथा मांसमर्म्माणि । सिरा- मर्म्माणि । स्नायुमर्म्माणि । अस्थिमर्म्माणि । सन्धिमर्म्माणि चेति । न खलु मांससिरा- स्नाय्वस्थिसन्धिव्यतिरेकेणान्यानि मर्म्माणि भवन्ति यस्यान्योपलभ्यन्ते ॥ तत्रैकादशमांस- मर्म्माणि । एकचत्वारिंशत्सिरामर्म्माणि । सप्तविंशतिः स्नायुमर्म्माणि । अष्टावस्थि- मर्म्माणि । विंशतिः सन्धिमर्म्माणि । तदेतत् सप्तोत्तरं मर्म्मशतम् ॥” इति सुश्रुते शारीर- स्थाने षष्ठेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=मर्म्म&oldid=156490" इत्यस्माद् प्रतिप्राप्तम्