सामग्री पर जाएँ

मर्य्यादागिरिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मर्य्यादागिरिः पुं, (मर्य्यादा सीमा तज्ज्ञापको गिरिः ।) कुलाचलः । वर्षसीमापर्व्वतः । यथा । “उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्य्यादा- गिरयः प्रागायताः । उभयतः क्षारोदावधयो द्विसहस्रयोजनपृथव एकैकशः पूर्ब्बस्मात् पूर्ब्ब- स्मादुत्तरोत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति । एवं दक्षिणेनेलावृतं निषधो हेम- कूटो हिमालय इति प्रागायता यथा नीला- दयः । अयुतयोजनोत्सेधा हरिवर्षकिंपुरुष- भारतानां यथासंख्यम् । तथैवेलावृतमपरेण पूर्ब्बेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतुः केतुमालभद्राश्वयोः सीमानं विदधाते ।” इति श्रीभागवते ५ स्कन्धे १६ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=मर्य्यादागिरिः&oldid=156516" इत्यस्माद् प्रतिप्राप्तम्