मर्षितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मर्षितः, त्रि, क्षमायुक्तः । क्षान्तिविशिष्टः । मृष- धातोः कर्त्तरि क्तप्रत्ययेन निष्पन्नः ॥ (यथा, श्रीमद्भागवते । १ । ७ । ५१ । “तत्राहामर्षितो भीमस्तस्य श्रेयान् वधः स्मृतः । न भर्त्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥”) भावे क्ते, क्ली । (मर्षणम् ॥)
