सामग्री पर जाएँ

मलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मलः, पुं, क्ली, (मृज्यते शोध्यते इति । मृज् + “मृजेष्टिलोपश्च ।” उणा ० १ । १०९ । इति अलच् टिलोपश्च । यद्बा, मलते धारयति व्याध्यादिदौर्गन्धमिति । मल् + अच् ।) पापम् । (यथा, मनुः । २ । १०२ । “पश्चिमान्तु समासीनो मलं हन्ति दिवाकृतम् ॥” “दिवार्ज्जितं पापं निहन्ति ।” इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥) विट् । (यथा, मनुः । ४ । २२० । “पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् । विष्ठा वार्द्धुषिकस्यान्नं शास्त्रविक्रयिणो मलम् ॥” “विष्ठा मलमेकमेव च ।” इति तद्भाष्ये मेधा- तिथिः ॥) किट्टम् । इत्यमरः । २ । ६ । ६५ ॥ (यथा, अभिज्ञानशकुन्तले । ६ । “छाया न मूर्च्छति मलोहतप्रासादे शुद्धे तु दर्पणतले सुलभावकाशा ॥”) “पापं किल्विषम् । विट् । विष्ठा । किट्टं कलङ्को मण्डूरादि स्वेदादि च एषु मलः । ‘वसा शुक्रमसृङ्मज्जा मूत्रं विट्कर्णविण्णखाः । श्लेष्माश्रुदूषिका स्वेदो द्वादशैते नृणां मलाः ॥’ इति स्मृतिः ।” इति तट्टीकायां भरतः ॥ कर्पू- रम् । इति शब्दचन्द्रिका ॥ वातपित्तकफाः । यथा, -- “सर्व्वेषामेव रोगाणां निदानं कुपिता मलाः । तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् ॥” इति माधवकरः ॥ (पारिभाषिकमलं यथा, महाभारते । ८ । ४५ । २३ । “क्षत्त्रियस्य मलं भैक्ष्यं ब्राह्मणस्याव्रतं मलम् । मलं पृथिव्या वाहीकाः स्त्रीणां मदश्रियो मलम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=मलः&oldid=156525" इत्यस्माद् प्रतिप्राप्तम्