मलयजम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मलयजम्, पुं, क्ली, (मलयात् जायते इति । जन् + डः ।) चन्दनम् । इत्यमरः । २ । ६ । १३१ ॥ (यथा, गीतगोविन्दे । ३ । ११ । “हृदि विषलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ॥ मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग ! क्रुधा किमु धावसि ॥” मलयजाते, त्रि । यथा, महाभारते । १ । २७ । ६ । “उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि ॥”) यथा च । “राहुं मलयजं शूद्रं पैठीनं द्वादशाङ्गुलम् । कृष्णं कृष्णाम्बरं सिंहासनं ध्यात्वा तथाह्वयेत् ॥” इति ग्रहयज्ञतत्त्वम् ॥
