मलिनमुखः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मलिनमुखः, पुं, (मलिनं मुखमग्रभागो यस्य ।) अग्निः । गोलाङ्गुलः । इति मेदिनी । खे, १८ ॥ प्रेतः । इति हेमचन्द्रः ॥
मलिनमुखः, त्रि, (मलिनं दूषितं मुखं यस्य ।) क्रूरः । खलः । इति मेदिनी । खे, १८ । हेम- चन्द्रश्च ॥ म्लानवदनश्च ॥
