मलीमसः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मलीमसः, त्रि, (मलमस्यास्तीति । मल + ईम- सच् । निपात्यते ।) मलिनः । इत्यमरः । ३ । १ । ५५ ॥ (यथा, माघे । १ । ३८ । “उपप्लुतं पातुमदो मदोद्धतै- स्त्वमेव विश्वम्भर ! विश्वमीशिषे । ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ॥” कृष्णवर्णः । यथा, श्रीकण्ठचरिते । ६ । ३८ । “मलीमसश्रीर्मधुपानसक्तो भेजे लताः पुष्पवतीः स्फुटं यः । स एव चैत्रेण वत द्बिरेफः पुष्पेषुराज्ये विहितः पुरोधाः ॥”)
