मल्लयुद्ध
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मल्लयुद्धम्, क्ली, (मल्लानां युद्धम् ।) मल्लानां संग्रामः । तत्पर्य्यायः । नियुद्धम् २ बाहुयुद्धम् ३ । इति शब्दरत्नावली ॥ तत्प्रकारा यथा, -- “अथ सूदेन तं मल्लं योधयामास मत्स्यराट् । चोद्यमानस्ततो भीमो दुःखेनैवाकरोम्मतिम् ॥ नहि शक्नोति विवृतं प्रत्याख्यातुं नराधिपम् । ततः स पुरुषव्याघ्रः शार्दूलशिथिलश्चरन् ॥ प्रविवेश महारङ्गं विराटमभिपूजयन् । बबन्ध कक्षां कौन्तेयस्ततः संहर्षयन् जनान् । ततस्तं वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ॥ जीमूतं नाम तं मल्लं तत्र प्रख्यातविक्रमम् । तावुभौ सुमहोत्साहावुभौ तीव्रपराक्रमौ ॥ मत्ताविव महाकायौ वारणौ षष्टिहायनौ । ततस्तौ नरशार्दूलौ बाहुयुद्धे समीयतुः ॥ वीरौ परमसं हृष्टावन्योन्यजयकाङ्क्षिणौ । आसीत् सुभीमः सम्पातो वज्रपर्व्वतयोरिव ॥ १० ॥ उभौ परमसंहृष्टौ बलेनातिबलावुभौ । अन्योन्यमन्तरप्रेप्सू परस्परजयैषिणौ ॥ उभौ परमसंहृष्टौ मत्ताविव महागजौ । कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सकङ्कटैः ॥ ११ ॥ सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा । क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्वनैः ॥ तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च । शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मल्लयुद्ध¦
६ त॰। बाहुयुद्धे तत्प्रकारः भा॰ वि॰
१२ अ॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मल्लयुद्ध¦ n. (-द्धं) Wrestling, boxing. E. मल्ल a wrestler, युद्ध contest.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मल्लयुद्ध/ मल्ल--युद्ध n. " a prize-fight " , pugilistic encounter , wrestling or boxing match MBh.