सामग्री पर जाएँ

मल्लिकाक्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मल्लिकाक्षः, पुं, (मल्लिकापुष्पमिव अक्षिणी यस्येति । “अक्ष्णोऽदर्शनात् ।” ५ । ४ । ७६ । इति अच् ।) मलिनचञ्चुचरणयुक्तहंसः । इति हेमचन्द्रः । ४ । ३९२ ॥ शुक्लवर्णवेष्टितचक्षु- र्द्वययुक्तहयः । इति हलायुधः ॥ (यथा, हरिवंशे । २४१ । २५ -- २६ । “मल्लिकाक्षान् विरूपाक्षान् क्रौञ्चवर्णान् मनो- जवान् । अश्वसैन्यं महाबाहुस्तदप्रतिमपौरुषः । निसूदयामास बली गदया भीमविक्रमः ॥”)

"https://sa.wiktionary.org/w/index.php?title=मल्लिकाक्षः&oldid=156616" इत्यस्माद् प्रतिप्राप्तम्