मसूर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसूरः, पुं स्त्री, (मस्यते परिमीयतेऽसौ । मस् + “मसेरूरन् ।” उणा० ५ । ३ । इति ऊरन् ।) ब्रीहिभेदः । ममुरी कलाइ इति भाषा ॥ (अस्याधिपतिर्मेषराशिः । यथा, बृहत्संहि- तायाम् । ४१ । २ । “वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम् । स्थलसम्भवौषधीनां कनकस्य च कीर्त्तितो मेषः ॥”) तत्पर्य्यायः । मङ्गल्यकः २ । इत्यमरः । २ । ९ । १७ ॥ मसुरः ३ ब्रीहिकाञ्चनः ४ । इति त्रिकाण्डशेषः ॥ मसूरा ५ मसुरा ६ । इति मेदिनी । रे, २०१ ॥ रागदालिः ७ मङ्गल्यः ८ पृथुबीजकः ९ शूरः १० कल्याणबीजः ११ गुडबीजः १२ मसूरकः १३ । इति राजनिर्घण्टः ॥ मङ्गल्या १४ मसूरका १५ । इति भावप्रकाशः ॥ अस्य गुणाः । मधुरत्वम् । शीतत्वम् । संग्राहित्वम् । कफपित्तनाशित्वम् । वातामयकरत्वम् । मूत्रकृच्छ्रहरत्वम् । लघु- त्वञ्च । इति राजनिर्घण्टः ॥ अस्रहरत्वम् । रूक्षत्वम् । ज्वरनाशित्वञ्च । इति भाव- प्रकाशः ॥ तस्य यूषगुणाः । संग्राहित्वम् । स्वादुपाकित्वम् । प्रमेहपित्तश्लेष्मज्वरातीसार- नाशित्वञ्च । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसूर पुं।

मसूरः

समानार्थक:मङ्गल्यक,मसूर

2।9।17।1।2

मङ्गल्यको मसूरोऽथ मकुष्टक मयुष्टकौ। वनमुद्गे सर्षपे तु द्वौ तन्तुभकदम्बकौ॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसूर¦ mf. (-रः-रा) A sort of pulse or lentil, (Ervum hirsutum, and Cicer lens.) f. (-रा)
1. A whore.
2. A lentil. f. (-री)
1. Small pox.
2. A small round pillow. E. मस् to weigh, Una4di aff. ऊरच्, मसूर, the pulse; the other meanings refer to this, implying resem- blance to the pea in figure, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसूर m. = मसुरVS. etc.

मसूर m. a pillow L.

मसूर f( आand ई). See. below.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Masūra is the name of a kind of lentil (Ervum hirsutum) in the Vājasaneyi Saṃhitā[१] and the Bṛhadāraṇyaka Upaniṣad.[२]

  1. xviii. 12.
  2. vi. 3, 22 (Mādhyaṃdina = vi. 3, 13 Kāṇva).

    Cf. Weber, Indische Studien, 1, 355;
    Zimmer, Altindisches Leben, 241.
"https://sa.wiktionary.org/w/index.php?title=मसूर&oldid=474214" इत्यस्माद् प्रतिप्राप्तम्