सामग्री पर जाएँ

मसूरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मसूरः, पुं स्त्री, (मस्यते परिमीयतेऽसौ । मस् + “मसेरूरन् ।” उणा० ५ । ३ । इति ऊरन् ।) ब्रीहिभेदः । ममुरी कलाइ इति भाषा ॥ (अस्याधिपतिर्मेषराशिः । यथा, बृहत्संहि- तायाम् । ४१ । २ । “वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम् । स्थलसम्भवौषधीनां कनकस्य च कीर्त्तितो मेषः ॥”) तत्पर्य्यायः । मङ्गल्यकः २ । इत्यमरः । २ । ९ । १७ ॥ मसुरः ३ ब्रीहिकाञ्चनः ४ । इति त्रिकाण्डशेषः ॥ मसूरा ५ मसुरा ६ । इति मेदिनी । रे, २०१ ॥ रागदालिः ७ मङ्गल्यः ८ पृथुबीजकः ९ शूरः १० कल्याणबीजः ११ गुडबीजः १२ मसूरकः १३ । इति राजनिर्घण्टः ॥ मङ्गल्या १४ मसूरका १५ । इति भावप्रकाशः ॥ अस्य गुणाः । मधुरत्वम् । शीतत्वम् । संग्राहित्वम् । कफपित्तनाशित्वम् । वातामयकरत्वम् । मूत्रकृच्छ्रहरत्वम् । लघु- त्वञ्च । इति राजनिर्घण्टः ॥ अस्रहरत्वम् । रूक्षत्वम् । ज्वरनाशित्वञ्च । इति भाव- प्रकाशः ॥ तस्य यूषगुणाः । संग्राहित्वम् । स्वादुपाकित्वम् । प्रमेहपित्तश्लेष्मज्वरातीसार- नाशित्वञ्च । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=मसूरः&oldid=156684" इत्यस्माद् प्रतिप्राप्तम्