सामग्री पर जाएँ

महः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महः, पुं, (मह्यते पूज्यतेऽस्मिन्निति । मह + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । मह + अच् इत्युज्ज्वलदत्तः । ४ । १८८ ।) उत्सवः । इत्यमरः । १ । ७ । १८८ ॥ (यथा, माघे । ६ । १९ । “न खलु दूरगतोऽप्यतिवर्त्तते महमसाविति बन्धुतयोदितैः ॥” महते पूज्यते इति ।) तेजः । इति मेदिनी । हे ७ ॥ यज्ञः । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । ७१ । १८ । “तस्मात् प्रावृषि राजानः सर्व्वे शक्रं मुदा युताः । महैः सुरेशमर्च्चन्ति वयमन्ये च मानवाः ॥”) महिषः । इति हेमचन्द्रः ॥ (त्रि, महत् । यथा, ऋग्वेदे । १० । ९१ । ८ । “महे वृणते नान्यं त्वत् ॥” “महे महति ।” इति तद्भाष्ये सायनः ॥)

महः, [स्] क्ली, (मह्यते पूज्यतेऽस्मिन्निति । मह + “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।) उत्सवः । (मह्यते पूज्यते इति । मह + असुन् ।) तेजः । इति मेदिनी । से, ३० ॥ (यथा, रघुटीकारम्भे मल्लिनाथः । “अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥” मह्यन्ते पूज्यन्ते देवादयोऽस्मिन्निति । मह + असुन् ।) यज्ञः । इति शब्दरत्नावली ॥ (उद- कम् । इति निघण्टुः । १ । १२ ॥ पूज्यमाने, त्रि । यथा, वाजसनेयसंहितायाम् । २० । ६ । “जिह्वा मे भद्रं वाङ्महो मनो मन्युः स्वरात् भामः ॥” “वाक् वागिन्द्रियं महः पूज्यमानास्तु ।” इति तद्भाष्ये महीधरः ॥ महति । यथा, ऋग्वेदे । ८ । २३ । १६ । “महो राये तमुत्वा समिधीमहि ।” “महो महते राये धनाय ।” इति तद्भाष्ये सायनः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महः [mahḥ], [मह्-घञर्थे क]

A festival, festive occasion; बन्धुताहृदयकौमुदीमहः Māl.9.21; U.6.4; स खलु दूरगतो$- प्यतिवर्तते महमसाविति बन्धुतयोदितैः Śi.6.19; मदनमहम् Ratn.1.

An offering, a sacrifice.

A buffalo.

Light, lustre; cf. महस् also.

"https://sa.wiktionary.org/w/index.php?title=महः&oldid=332679" इत्यस्माद् प्रतिप्राप्तम्