सामग्री पर जाएँ

महत्तत्त्वम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महत्तत्त्वम्, क्ली, (महच्च तत् तत्त्वञ्चेति ।) चतु- र्विंशतितत्त्वान्तर्गतद्वितीयतत्त्वम् । तत्तु प्रकृते- रुत्पन्नम् । समष्टिबुद्धिस्वरूपम् । तत्पर्य्यायः । यथा, -- “महानात्मा मतिर्व्विष्णुर्ज्जिष्णुः शम्भुश्च वीर्य्य- वान् । बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिः स्मृतिः । पर्य्यायवाचकैः शब्दैर्म्महानात्मा विभाव्यते । तं जानन् ब्राह्मणो विद्वान् प्रमोहं नाधि- गच्छति ॥” इति महाभारते आश्वमेधिकपर्व्व ॥ अपि च । “एका मूर्त्तिस्तयो भागा ब्रह्मविष्णुमहेश्वराः । सविकारात् प्रधानात्तु महत्तत्त्वं प्रजायते ॥ महानिति यतः ख्यातिर्लोकानां जायते सदा । अहङ्कारश्च महतो जायते मानवर्द्धनः ॥” इति मात्स्ये २ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=महत्तत्त्वम्&oldid=156727" इत्यस्माद् प्रतिप्राप्तम्