महत्तरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महत्तरः, पुं, स्त्री, (अयमनयोरतिशयेन महान् । महत् + तरप् ।) शूद्रः । यथा, -- “शूद्रः स्यात् पादजो दासो ग्रामकूटो मह- त्तरः ।” इति त्रिकाण्डशेषः ॥ (यथा, कथासरित्सागरे । ५ । ३४ । “केनायं रचितोऽत्रेति सोऽपृच्छच्च महत्तरान् । ते च न्यवेदयंस्तस्मै कर्त्तारं तिलकस्य माम् ॥”) अतिशयमहति, त्रि ॥ (यथा, महाभारते । ७ । १९९ । ५९ । “ददर्श भृशदुर्दशं सर्व्वदेवैरभिष्टुतम् । अणीयांसमणुभ्यश्च बृहद्भ्यश्च महत्तरम् ॥”)
