सामग्री पर जाएँ

महर्लोकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महर्लोकः, पुं, (महश्चासौ लोकश्चेति । कर्म्म- धारयः ।) भूरादिसप्तलोकान्तर्गतचतुर्थलोकः । यथा, -- “भूर्भुवः स्वर्म्महश्चैव जनश्च तप एव च । सत्यलोकश्च सप्तैते लोकास्तु परिकीर्त्तिताः ॥ चतुर्मुखदिनस्यान्ते जगदेतच्चराचरम् ॥ तदा हि दह्यते सर्व्वं त्रैलोक्यं भूर्भुवादिकम् । जनं प्रयान्ति तापार्त्ता महर्लोकनिवासिनः ॥” इति वह्निपुराणम् ॥ “चतुर्थे तु महर्लोके तिष्ठन्ते कल्पवासिनः ॥” इति देवीपुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=महर्लोकः&oldid=156733" इत्यस्माद् प्रतिप्राप्तम्