सामग्री पर जाएँ

महल्लकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महल्लकः, पुं, (महतः स्त्रीरक्षादिरूपान् विपु- लान् भारानित्यर्थः लाति गृह्णातीति । ला + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः । ततः स्वार्थे कन् । यद्वा, महान्तं चरित्र- गुणं लकति आस्वादयतीति । लक् आस्वादने + अच् ।) अन्तःपुररक्षकः । तत्पर्य्यायः । सौवि- दल्लः २ कञ्चुकी ३ स्थापत्यः ४ सौविदः ५ विदाङ्कः ६ । इति जटाधरः ॥ सौविदल्लकः ७ अन्त- र्वंशिकः ८ । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=महल्लकः&oldid=156738" इत्यस्माद् प्रतिप्राप्तम्