महाकरञ्जः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाकरञ्जः, पुं, (महांश्चासौ करञ्जश्चेति ।) करञ्जविशेषः । वड करञ्जा इति भाषा ॥ तत् पर्य्यायः । षड्ग्रन्था २ हस्तिचारिणी ३ उद- कीर्णः ४ विषघ्नी ५ काकघ्नी ६ मदहस्तिनी ७ शारङ्गेष्टा ८ मधुमती ९ रसायनी १० हस्ति- रोहणकः ११ हस्तिकरञ्जकः १२ सुमनाः १३ काकभाण्डी १४ मधुमत्ता १५ । अस्य गुणाः । तीक्ष्णत्वम् । उष्णत्वम् । कटुत्वम् । विषकण्डू- विचर्च्चिकाकुष्ठत्वग्दोषव्रणनाशित्वञ्च । इति राजनिर्घण्टः ॥
