महाकालः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाकालः, पुं, (महांश्चासौ कालश्चेति ।) विष्णु- स्वरूपाखण्डदण्डायमानसमयः । यथा । कालो घटवान् महाकालत्वात् । इति सिद्धान्त- लक्षणम् ॥ महादेवः । (तन्निरुक्तिर्यथा महा- निर्व्वाणतन्त्रे । ४ । ३१ । अन्धकं तपसा युक्तं भृङ्गिणञ्चाकरोद्धरः ॥ अन्धकस्तु हरं पूर्ब्बं विरुध्यापदमागतः । पश्चाद्धरं समाराध्य पुत्त्रोऽभूत्तस्य सोऽसुरः ॥ भृङ्गिस्नेहाद्भृङ्गिणं तं सं ज्ञया चाकरोद्धरः । स्नेहेन तु महाकालं बाणं वलिसुतं हरः ॥ विष्णुना च्छिन्नबाहुं तं महाकालमथाकरोत् । एवं मुनिवरास्तेषां संजातञ्च चतुष्टयम् ॥ वेतालो भैरवो भृङ्गी महाकालेत्यनुक्रमात् ॥” इति कालिकापुराणे ८५ अध्यायः ॥ * ॥ तस्य ध्यानादि यथा, -- “महाकालं यजेद्देव्या दक्षिणे धूम्रवर्णकम् । बिभ्रतं दण्डखट्टाङ्गौ दंष्ट्राभीममुखं शिशुम् ॥ व्याघ्रचर्म्मावृतकटिं तुन्दिलं रक्तवाससम् । त्रिनेत्रमूर्द्ध्वकेशञ्च मुण्डमालाविभूषितम् ॥ जटाभारलसच्चन्द्रखण्डमुग्रं ज्वलन्निभम् ॥ तथा च कुमारीकल्पे । देव्यास्तु दक्षिणे भागे महाकालं प्रपूजयेत् । हुं क्ष्रौं यां रां लां वां क्रों महाकालभैरव सर्व्वविघ्नान्नाशय नाशय ह्रीं श्रीं फट् स्वाहा । इत्यनेन पाद्यादिभिराराध्य त्रिस्तर्पयित्वा मूलेन देवीं पञ्चोपचारैः पूजयेत् । तथा च काली- तन्त्रे । महाकालं यजेद्यत्नात् पश्चाद्देवीं प्रपूजयेत् । कालीकल्पे । कवचं क्ष्रौं समुद्धृत्य यां रां लां वाञ्च क्रोन्ततः । महाकालभैरवेति सर्व्वविघ्नान्नाशयेति च ॥ नाशयेति पुनः प्रोच्य मायां लक्ष्मीं समुद्धरेत् । फट् स्वाहया समायुक्तो मन्त्रः सर्व्वार्थसाधकः ॥” इति तन्त्रसारः ॥
