सामग्री पर जाएँ

महाकाव्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाकाव्यम्, क्ली, (महच्च तत्काव्यञ्चति ।) काव्य- शास्त्रविशेषः । तत्पर्य्यायः । सर्गबन्धः २ । इति त्रिकाण्डशेषः ॥ तस्य लक्षणं यथा, -- “सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः । सद्वंशः क्षत्त्रियो वापि धीरोदात्तगुणान्वितः ॥ एकवंशभवा भूपाः कुलजा बहवोऽपि वा । शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते ॥ अङ्गानि सर्व्वेऽपि रसाः सर्व्वे नाटकसन्धयः । इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ॥ चत्वारस्तत्र वर्गाः स्युस्तेष्वेकञ्च फलं भवेत् । आदौ नमस्क्रियाशीर्व्वा वस्तुनिर्द्देश एव वा ॥ क्वचिन्निन्दा खलादीनां सताञ्च गुणकीर्त्तनम् । एकवृत्तमयः पद्यैरवसानेऽन्यवृत्तकैः ॥ नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह । नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते ॥ सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् । सन्ध्यासूर्य्येन्दुरजनीप्रदोषध्वान्तवासराः ॥ प्रातर्मध्याह्रमृगयाशैलर्त्तुवनसागराः । सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः ॥ रणप्रयाणोपयममन्त्रपुत्त्रोदयादयः । वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह ॥ कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा । नामास्य सर्गोपादेयकथया सर्गनाम तु ॥” इति साहित्यदर्पणे ६ परिच्छेदः ॥ * ॥ महाकाव्यग्रन्था यथा, कालिदासकृतकुमार- सम्भवरघुवंशप्रभृतयः । भर्त्तृहरिकृतभट्टि- काव्यम् । भारविकृतकिरातार्ज्जुनीयम् । श्रीहर्ष- कृतनैषधीयचरितम् । माघकृतशिशुपालवध- श्चेत्यादयः ॥

"https://sa.wiktionary.org/w/index.php?title=महाकाव्यम्&oldid=156762" इत्यस्माद् प्रतिप्राप्तम्