सामग्री पर जाएँ

महाकुष्ठम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाकुष्ठम्, क्ली, (महच्च तत् कुष्ठञ्चेति ।) बृहत्- कुष्ठरोगः । तत् सप्तविधं यथा, -- “पूर्ब्बत्रिकं तथा सिध्मं ततः काकणकं तथा । पुण्डरीकर्क्षजिह्वे तु महाकुष्टानि सप्त च ॥ पूर्ब्बत्रिकं कपालौदुम्बरमण्डलाख्यम् । सिध्म- शब्दोऽकारान्तो नपुंसकलिङ्गः । ननु कथं सिध्मस्य महाकुष्ठेषु गणना सुश्रुतेन क्षुद्र- कुष्ठेषुक्तत्वात् । उच्यते । त्वङ्मात्रगता सिध्म- पुष्पिका सुश्रुतेन च क्षुद्रकुष्ठेषूक्ता धातुषु प्रवि- ष्टन्तु सिध्मं महाकुष्ठमेव । एवंविधस्य सिध्मस्य चरकेण महाकुष्ठेषु दर्शितत्वात् । एषां महाकुष्ठत्वञ्च शीघ्रमुत्तरोत्तरधात्ववगाहनात् उल्वणदोषजन्यत्वात् चिकित्साबाहुल्याच्च ।” इति भावप्रकाशः ॥ (एषां चिकित्सा क्षुद्रकुष्ठ- शब्दे द्रष्टव्या ॥)

"https://sa.wiktionary.org/w/index.php?title=महाकुष्ठम्&oldid=156770" इत्यस्माद् प्रतिप्राप्तम्