महागदः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महागदः, पुं, (महांश्चासौ गदश्चेति ।) ज्वरः । इति राजनिर्घण्टः ॥ (महारोगः । यथा, सुश्रुते । १ । ३३ अध्याये । “वातव्याधिः प्रमेहश्च कुष्ठमर्शो भगन्दरः । अश्मरी मूढगर्भश्च तथैवोदरमष्टमम् । अष्टावेते प्रकृत्यैव दुश्चिकित्सा महागदाः ॥” औषधविशेषः । यथा, सुश्रुते कल्पस्थाने ५ अध्याये । “एषोऽगदो हन्ति विषं प्रयुक्तः पानाञ्जनाभ्यञ्जननस्ययोगैः । अवार्य्यवीर्य्यो विषवेगहन्ता महागदो नाम महाप्रभावः ॥” महती गदास्येतिविग्रहे महागदाविशिष्टे, त्रि । यथा, श्रीमद्भागवते । ३ । १८ । ९ । “परानुषक्तं तपनीयोपकल्पं महागदं काञ्चनचित्रदंशम् । मर्म्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तैः प्रचण्डमन्युः प्रहसंस्तं बभाषे ॥”)
