सामग्री पर जाएँ

महागिरिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महागिरिः, पुं, (महान् गिरिस्तदाख्योपाधिर्यस्य । यद्वा, महान् गिरिरिव ।) बौद्धभेदः । यथा -- “महागिरिः सुहस्त्याद्या वज्रान्ता दश- पूर्ब्बिणः ॥” इति हेमचन्द्रः । १ । ३४ ॥ महान् गिरिः पर्व्वतः ।) बृहत्पर्व्वतश्च ॥ (यथा, महाभारते । ३ । ११० । १५ । “नातप्रतपसा शक्यो द्रष्टुमेष महागिरिः । आरोढुं वापि कौन्तेय ! तस्मान्नियतवाग्भव ॥” दानवविशेषः । यथा, हरिवंशे । ३ । ८६ । “सूक्ष्मश्चैव निचन्द्रश्च उर्णनाभो महागिरिः ॥”)

"https://sa.wiktionary.org/w/index.php?title=महागिरिः&oldid=156786" इत्यस्माद् प्रतिप्राप्तम्