सामग्री पर जाएँ

महागुरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महागुरुः, पुं, (महांश्चासौ गुरुश्चेति ।) अति- गुरुः । स च पुरुषस्य पिता माता आचार्य्यश्च । स्त्रियाः पतिः । अदत्तकन्यायाः पिता माता च । यथा । त्रयः पुरुषस्यातिगुरवो भवन्ति माता पिताचार्य्यश्चेति । इति विष्णुसूत्रम् ॥ पत्युर्महागुरुत्वमाह रामायणे । “नातो विशिष्टं पश्यामि बान्धवं वै कुलस्त्रियाः । पतिर्ब्बन्धुर्गतिर्भर्त्ता दैवतं गुरुरेव च ॥” शातातपः । “गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्व्वत्राभ्यागतो गुरुः ॥” एकपदेन दत्तस्त्रीणां पितृमातृव्यावृत्तिः ॥ * ॥ सपिण्डमरणं प्रकृत्य आश्वलायनः । त्रिरात्र- मक्षारलवणान्नाशिनः स्युर्द्वादशरात्रं महा- गुरुषु । आचार्य्यश्च उपनीय ददद्वेदमाचार्य्यः स उदाहृतः । इति याज्ञवल्क्योक्तः । तन्म- रणे त्रिरात्राशौचित्वेन नैतादृङ्नियमः ॥ आश्वलायनः । नैतस्यां रात्रावन्नं पचेयुः । अन्नं न पचेयुरित्यनेनोपवासः सूचितः । अघ- स्रस्तरे त्र्यहमनश्नन्त आसीरन् इति वक्ष्य- माणवचनात् । अघस्रस्तरः कटादिः । अक्षार- लवणं क्षारमृत्तिकादिकृतलवणभिन्नं तत्तु सैन्धवं साम्भरि च । इति शुद्वितत्त्वम् ॥ * ॥ महागुरुमरणे संवत्सरपर्य्यन्तं निषिद्धकर्म्माणि यथा, कर्म्मलोचने । “महागुरुनिपाते च काम्यं किञ्चिन्न चाचरेत् । आर्त्विज्यं ब्रह्मचर्य्यञ्च यावत् पूर्णो न वत्सरः ॥ अन्यश्राद्धं परान्नञ्च गन्धं माल्यञ्च मैथुनम् । वर्ज्जयेद्गुरुपाते च यावत् पूर्णो न वत्सरः ॥ तीर्थयात्रां विवाहञ्चाध्यापनं तर्पणन्तथा । संवत्सरं न कुर्व्वीत महागुरुनिपातने ॥” अपि च । “विशेषतः शिवापूजां प्रमृतपितृको द्विजः । यावद्वत्सरपर्य्यन्तं मनसापि न चाचरेत् ॥ महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत् । आर्त्विज्यं ब्रह्मयज्ञञ्च श्राद्धं देवयुतञ्च यत् ॥” इति कालिकापुराणे ५४ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महागुरु¦ पु॰ कर्म॰।
“त्रयः पुरुषस्यातिगुरवो भवन्तिपिता माता चाचार्य्यश्च” स्मृत्युक्ते पुरुषस्य

१ पित्रादौ
“पतिरेकोगुरुः स्त्रीणा” मित्युक्ते दत्तकन्याया

२ भर्त्तरिअदत्तकन्यायाः पितरि, मातरि च।
“महागुरुनिपाते चकाम्यं किञ्चिन्नचाचरेत्” स्मृतिः।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महागुरु/ महा--गुरु m. a very venerable person A1s3vGr2. Ka1lP. etc.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--he, who imparts ब्रह्मोपदेश. Br. IV. 8. 4. [page२-650+ २५]

"https://sa.wiktionary.org/w/index.php?title=महागुरु&oldid=434882" इत्यस्माद् प्रतिप्राप्तम्