महागोधूम
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महागोधूमः, पुं, (माहांश्चासौ गोधूमश्चेति ।) बृहद्गोधूमः । वड गम इति भाषा ॥ यथा, -- “गोधूमः सुमनोऽपि स्यात्त्रिविधः स च कीर्त्तितः । महागोधूम इत्याख्यः पश्चाद्देशांत् स चागतः ॥ मघूली तु ततः किञ्चिदल्पा सा मध्यदेशजा । निःशूको दीर्घगोधूमः क्वचिन्नन्दीमुखाभिधः ॥ गोधूमो मधुरः शीतो वातपित्तहरो गुरुः । कफशुक्रप्रदो बल्यः स्निग्धः सन्धानकृत्सरः ॥ जीवनो बृंहणो वर्ण्यो व्रण्यो रुज्यः स्थिरत्व- कृत् ॥” कफप्रदो नवीनो नतु पुराणः । पुराणयव- गोधूमक्षौद्रजाङ्गलशूल्यभुगिति वाग्भटेन वसन्ते गृहीतत्वात् । “मधुली शीतला स्निग्धा पित्तघ्नी मधुरा लघुः । शुक्रला वृंहणी पथ्या तद्वन्नन्दीमुखाः स्मृताः ॥” इति भावप्रकाशः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महागोधूम/ महा--गोधूम m. coarse-grained wheat Bhpr.
