महाग्रीवः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाग्रीवः, पुं, (महती दीर्घा ग्रीवा कन्धरा यस्य ।) उष्ट्रः । इति राजनिर्घण्टः ॥ (शिवः । यथा, महाभारते । १३ । १७ । ८६ । “महानासो महाकम्बुर्म्महाग्रीवः श्मशान- भाक् ॥” शिवानुचरभूतविशेषः । यथा, हरिवंशे भविष्य- पर्व्वणि । १४ । ३ । “कुण्डोदरो महाग्रीवः स्थूलजिह्वो द्विबाहुकः । पार्श्ववक्त्रः सिंहमुख उन्नतांसो महाहनुः ॥” देशविशेषः । यथा, मार्कण्डेये । ५८ । १७ । “व्याघ्रग्रीवा महाग्रीवा स्त्रीपुरा श्मश्रु- धारिणः ॥”) बृहद्ग्रीवायुक्ते, त्रि ॥
