महाचञ्चु
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाचञ्चुः, स्त्री, (महती चञ्चुरग्रमस्याः ।) शाक- विशेषः । तत्पर्य्यायः । बृहच्चञ्चुः २ विषारिः ३ मुचञ्चुका ४ स्थूलचञ्चुः ५ दीर्घपत्री ६ दिव्य- गन्धा ७ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कषायत्वम् । मलशोधनत्वम् । गुल्मशूलो- दरार्शोऽर्त्तिविषनाशित्वम् । रसावनत्वञ्च । इति राजनिर्घण्टः ॥ पुं, बृहच्चञ्चुयुक्तपक्षी च ॥
