महाजनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाजनः, पुं, (महांश्चासौ जनश्चेति ।) साधुः । यथा, महाभारते । ३ । ३१२ । ११२ । “वेदा विभिन्नाः स्मृतयो विभिन्ना नासौ मुनिर्यस्य मतं न भिन्नम् । धर्म्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥” मन्वादिः । यथा, -- “प्रायेण वेद तदिदं न महाजनोऽयं देव्या विमोहितमतिर्व्वत माययालम् । त्रय्यां जडीकृतमतिर्मधुपुष्पितायां वैतानिके महति मर्म्मणि युज्यमानः ॥” इति श्रीभागवते षष्ठस्कन्धे अजामिलोपाख्याने यमवाक्यव्याख्याने श्रीधरस्वामी ॥ (धनी । यथा, मृच्छकटिके । १ । “सङ्गं नैव हि कश्चिदस्य कुरुते सम्भाष्यते नादरात् संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते । दूरादेवमहाजनस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाममपरं षष्ठं महापात- कम् ॥”)
