सामग्री पर जाएँ

महाज्यैष्ठी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाज्यैष्ठी, स्त्री, (महती चासौ ज्यैष्ठी चेति ।) नक्षत्रविशेषादियुक्तज्यैष्ठीपूर्णिमा । सा पञ्चधा । यथा, ब्रह्मपुराणे । “ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा । पूर्णिमा गुरुवारेण महाज्यैष्ठी प्रकीर्त्तिता ॥ ऐन्द्रे ज्येष्ठायां प्राजापत्ये रोहिण्याम् ॥ १ ॥ विना गुरुवारेणापि । ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा । पूर्णिमा ज्यैष्ठमासस्य महाजयिष्ठी प्रकीर्त्तिता ॥ २ ॥ अनुराधास्थगुरावपि । ऐन्द्रे मैत्रे यदा जीवस्तत्पञ्चदशके रविः । पूर्णिमा शक्रचन्द्रेण महाज्यैष्ठी प्रकीर्त्तिता ॥ ३ ॥ अनुराधास्थे चन्द्रेऽपि । व्याघ्रभूतिः । ऐन्द्रर्क्षे त्वथवा मैत्रे गुरुचन्द्रौ यदा स्थितौ । पूर्णिमा ज्यैष्ठमासस्य महाज्यैष्ठी प्रकीर्त्तिता ॥ ४ ॥ राजमार्त्तण्डे । ज्यैष्ठे संवत्सरे चैव ज्यैष्ठमासस्य पूर्णिमा । ज्येष्ठाभेन समायुक्ता महाज्यैष्ठी प्रकीर्त्तिता ॥ ५ ॥ ज्यैष्ठसंवत्सरश्च । ज्येष्ठामूलोपगे जीवे वर्षं स्यात् शक्रदैवतम् । इति विष्णुधर्म्मोत्तरोक्तो ग्राह्यः । न तु संवत्सरादिपञ्चकान्तर्गतवर्षविशेषः । ज्यैष्ठ इति वर्षविशेषणस्य वैयर्थ्यापत्तेः । संवत्सरे यदि स्यादिति पाठः काल्पनिकः ॥ * ॥ महाज्यैष्ठ्यान्तु यः पश्येत् पुरुषः पुरुषोत्तमम् । विष्णुलोकमवाप्नोति मोक्षं गङ्गाम्बुमज्जनात् ॥” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाज्यैष्ठी¦ स्त्री
“ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रवि-स्तथा। पूर्णिमा रविवारेण महाज्यैष्ठी प्रकीर्त्तिता” उक्तलक्षणायां ज्यैष्ठपौर्णमास्याम्।
“महाज्यैष्ठ्यां तुयः पश्येत् पुरुषः पुरुषोत्तमम्” प्रा॰ त॰ लक्षणान्तरं दृश्यम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाज्यैष्ठी/ महा--ज्यैष्ठी f. N. of a night of full moon coinciding with certain phenomena in the heavens in the month ज्यैष्ठTithya1d.

"https://sa.wiktionary.org/w/index.php?title=महाज्यैष्ठी&oldid=334442" इत्यस्माद् प्रतिप्राप्तम्