महात्मा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महात्मा, [न्] त्रि, (महानात्मा स्वभावोऽस्य ।) उत्तमस्वभावयुक्तः । (यथा, कामन्दकीयनीति- सारे । ३ । ११ । “महावाताहृतभ्रान्तिमेघमालातिपेलवैः । कथं नाम महात्मानो ह्नियन्ते विषयारिभिः ॥”) तत्पर्य्यायः । महेच्छः २ उद्भटः ३ उदारः ४ उदात्तः ५ उदीर्णः ६ महाशयः ७ महा- मनाः ८ । इति हेमचन्द्रः । ३ । ३१ ॥ (पुं, पर- मात्मा । यथा, मनुः । १ । ५४ । “युगपत्तु प्रलीयन्ते यदा तस्मिन् महात्मनि । तदायं सर्व्वभूतात्मा सुखं स्वपिति निर्वृतः ॥” “तस्मिन् परमात्मनि ।” इति तट्टीकायां कुल्लूकः ॥ महत्तत्त्वम् । यथा, श्रीमद्भागवते । ९ । ७ । २५ । “मनः पृथिव्यां तामद्भिस्तेजसापोऽनिलेन तत् । खे वायुं धारयंस्तच्च भूतादौ तं महात्मनि ॥” “महात्मनि महत्तत्त्वे ।” इति तट्टीकायां श्रीधरस्वामी ॥ पितृगणविशेषः । यथा, मार्क- ण्डेये । ९६ । ४६ । “महान् महात्मा महितो महिमावान् महा- बलः ॥” महादेवः । यथा, महाभारते । १३ । १७ । ३४ । “महारूपो महाकायो वृषरूपो महायशाः । महात्मा सर्व्वभूतात्मा विश्वरूपो महाहनुः ॥”)

"https://sa.wiktionary.org/w/index.php?title=महात्मा&oldid=503444" इत्यस्माद् प्रतिप्राप्तम्