महादानम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महादानम्, क्ली, (महच्च तद्दानञ्चेति ।) श्रेष्ठ- दानम् । तत्तु तुलापुरुषादिषोडशप्रकारम् । यथा, मत्स्यपुराणे । “अथातः संप्रवक्ष्यामि महादानस्य लक्षणम् ॥” इत्यभिधाय । “आद्यन्तु सर्व्वदानानां तुलापुरुषसंज्ञितम् । हिरण्यगर्भदानञ्च ब्रह्माण्डं तदनन्तरम् ॥ कल्पपादपदानञ्च गोसहस्रन्तु पञ्चमम् । हिरण्यकामधेनुश्च हिरण्याश्वस्तथैव च ॥ पञ्चलाङ्गलकं तद्वद्धरादानन्तथैव च । हिरण्याश्वरथस्तद्वद्धेमहस्तिरथस्तथा ॥ द्बादशं विष्णुचक्रञ्च ततः कल्पलतात्मकम् । सप्तसागरदानञ्च रत्नधेनुस्तथैव च । महाभूतघटस्तद्वत् षोडशः परिकीर्त्तितः ॥” * ॥ अत्र सामान्यलक्षणम् । सूक्तजपाङ्गकदानं महादानम् । विनायकादिपञ्चाशद्देषताहोमा- ङ्गकं वा । तथा मत्स्यपुराणम् । “विनायकादिग्रहलोकपाल- वस्वष्टकादित्यमरुद्गणानाम् । ब्रह्माच्युतेशानबृहस्पतीनां स्वमन्त्रतो होमचतुष्टयं स्यात् ॥ जप्यानि सूक्तानि तथैव चैषा- मनुक्रमेणापि यथास्वरूपम् ॥” इत्यादिना सूक्तजपहोमरूपाङ्गयोर्व्विधानं प्रत्येकं षोडशतुलापुरुषप्रधानान्युद्दिश्योक्तं नतु महादानत्वेनोद्दिश्येति । अतो नेतरेतरा- श्रयः । न तु कुण्डमण्डपेतिकर्त्तव्यतायोगित्वं जिकनीयलक्षणम् । अचलदानेऽपि गतत्वात् । एवञ्च । “कनकाश्वतिला गावो दासी रथमहीगृहाः । कन्या च कपिला धेनुर्म्महादानानि वै दश ॥” इति कूर्म्मपुराणोक्तदानपदं गौणम् ॥ अन्यथा बहुशक्तिकल्पनापत्तेः कनकदानादि- साधारणानुगतैकरूपाभावाच्च । अतो न वैप- रीत्यमिति । “सर्व्वेषामेव दानानामेकजन्मानुगं फलम् ॥” इति मलमासतत्त्वम् ॥
