सामग्री पर जाएँ

महादेवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महादेवः, पुं, (महांश्चासौ देवश्चेति । यद्वा, महतां देवादीनां देवः ।) शिवः । इत्यमरः । १ । १ । ३४ ॥ अष्टमूर्त्त्यन्तर्गतसोममूर्त्तिरयम् । यथा, महादेवाय सोममूर्त्तये नमः । इति शिवपूजापद्धतिः ॥ * ॥ अस्य व्युत्पत्तिर्यथा -- “ब्रह्मादीनां सुराणाञ्च मुनीनां ब्रह्मवादिनाम् । तेषाञ्च महतां देवो महादेवः प्रकीर्त्तितः ॥ भहती पूजिता विश्वे मूलप्रकृतिरीश्वरी । तस्या देवः पूजितश्च महादेवः स च स्मृतः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५३ अध्यायः ॥ तस्य पञ्चवक्त्रत्वत्रिनेत्रत्वकारणं यथा, -- “अतीव कमनीयाङ्गं किशोरं श्यामसुन्दरम् । अहो निर्व्वचनीयञ्च दृष्ट्वा रूपमनुत्तमम् । न बभूव वितृष्णश्च लोचनाभ्यां त्रिलोचनः ॥ पश्यन्निमेषरहित इति मत्वा स्वमानसे । भक्त्युद्रेकान्महाभक्तो रुरोद प्रेमविह्वलः ॥ सहस्रवदनोऽनन्तो भाग्यवांश्च चतुर्म्मुखः । वहुभिर्लोचनैर्दृष्ट्वा तुष्टाव बहुभिर्मुखैः ॥ पश्यामि किं वा किं स्तौमि संप्राप्य नाथ- मीदृशम् । आस्यैकेन लोचनाभ्यां चतुर्धा स पुनः पुनः ॥ स्वमानसे कुर्व्वतीदं शङ्करे च तपस्विनि । तद्वभूव चतुर्व्वक्त्रं पूर्ब्बेण सह पञ्चमम् ॥ एकैकवक्त्रं शुशुभे लोचनैश्च त्रिभिस्त्रिभिः । बभूव तेन तन्नाम पञ्चवक्त्रस्त्रिलोचनः ॥ चक्षूंषि गुणरूपाणि तस्य ब्रह्मस्वरूपिणः । सत्त्वं रजस्तम इति तस्य हेतुं निशामय ॥ सत्त्वांशेन दृशा शम्भुः पश्यन् पाति च सात्त्वि कान् । राजसेन राजसिकान् तामसेन च तामसान् ॥ चक्षुषस्तामसात् पश्चात् ललाटस्थाद्धरस्य च । संहारकाले संहर्त्तुरग्निराविर्भवेत् क्रुधा ॥ कोटितालप्रमाणश्च सूर्य्यकोटिसमप्रभः । लेलिहानो दीर्घशिखस्त्रैलोक्यं दग्धुमीश्वरः ॥” तस्य भस्मधारणकारणं यथा, -- “विभूतिगात्रः स विभुः सतीसत्कारभस्मना । धत्ते तस्या अस्थिमालां प्रेमभावेन भस्म च ॥ स्वात्मारामो यद्यपीशस्तथापि पूर्णमब्दकम् । सतीशवं गृहीत्वा च भ्रामं भ्रामं रुरोद ह ॥ प्रत्यङ्गाङ्गञ्च तस्याश्च पपात यत्र यत्र च । सिद्धपीठस्तत्र तत्र बभूव मन्त्रसिद्धिकृत् ॥ तदा शवावशेषञ्च कृत्वा वक्षसि शङ्करः । पपात मूर्च्छितो भूत्वा सिद्धक्षेत्रे च राधिके ! ॥ तदा गत्वा महेशन्तं कृत्वा क्रोडे प्रबोध्य च । अददं दिव्यतत्त्वञ्च तस्मै शोकहरं परम् ॥ तदा शिवश्च सन्तुष्टः स्वलोकञ्च जगाम ह । तन्नामोच्चारणफलं यथा, -- “कोटयो ब्रह्महत्यानामगम्यागमकोटयः । सद्यः प्रलयमायान्ति महादेवेति कीर्त्तनात् ॥ महादेव महादेव महादेवेति वादिनम् । वत्सं गौरिव गौरीशो धावन्तमनुधावति ॥” इति पुराणम् ॥ * ॥ तस्य प्रणाममन्त्रः । “नमस्ये त्वां महादेव ! लोकानां गुरुमीश्वरम् । पुंसामपूर्णकामानां कामपूरामराङ्घ्रिपम् ॥” इति श्रीभागवतम् ॥ “महादेवं महात्मानं महायोगिनमीश्वरम् । महापापहरं देवं मकाराय नमो नमः ॥” इति तन्त्रम् ॥ * ॥ तस्य कालरूपवर्णनं यथा, -- नारद उवाच । “कालरूपी त्वया ख्यातः शम्भुर्गगनगोचरे । लक्षणञ्च स्वरूपञ्च सर्व्वं व्याख्यातुमर्हसि ॥ पुलस्त्य उवाच । स्वरूपं त्रिपुरघ्नस्य वदिष्ये कालरूपिणः । अश्विनी भरणी चैव कृत्तिका प्रथमांशकम् ॥ मेषकं हि विजानीयात् कुजक्षेत्रमुदाहृतम् । आग्नेयांशास्त्रयो ब्रह्मन् ! प्राजापत्यं कवेर्गृहम् ॥ सौम्यार्द्धं वृषनामेदं वदनं परिकीर्त्तितम् । मृगार्द्धमार्द्रादित्यांशास्त्रयः सौम्यगृहन्त्विदम् ॥ मिथुनं भुजयोस्तस्य गगनस्थस्य शूलिनः । आदित्यांशश्च पुष्यञ्च अश्लेषा शशिनो गृहम् ॥ राशिः कर्कटको नाम पार्श्वेन खविलासिनः । पित्रर्क्षं भगदैवत्यं उत्तरांशश्च केशरी ॥ सूर्य्यक्षेत्रं विभोर्ब्रह्मन् हृदयं परिकीर्त्तितम् । उत्तरांशास्त्रयः पाणिश्चित्रार्द्धं कन्यका त्विदम् ॥ सोमपुत्त्रस्य सद्मैतत् द्वितीयं जठरं विभोः । चित्रांशद्वितयं स्वाती विशाखायांशकत्रयम् ॥ द्वितीयं शुक्रसदनं तुलानाभिरुदाहृतम् । विशाखांशमनुराधा ज्येष्ठा भौमगृहं त्विदम् ॥ द्वितीयं वृश्चिको राशिर्मेढ्रं कालस्वरूपिणः । मूलं पूर्ब्बोत्तरांशश्च देवाचार्य्यगृहं धनुः ॥ ऊरुयुगलमीशस्य अमरर्षे ! प्रगीयते । उत्तरांशास्त्रयो ऋक्षं श्रवणं मकरो मुने ! ॥ धनिष्ठार्द्धं शनिक्षेत्रं जानुनी परिकीर्त्तिते । धनिष्ठार्द्धं शतभिषा प्रोष्ठपद्यांशकत्रयम् ॥ सौरं सद्मापरमिदं कुम्भो जङ्घे च विश्रुते । प्रोष्ठपद्यांशमेकन्तु उत्तरा रेवती तथा ॥ द्वितीयं जीवसदनं मीनस्तु चरणावुभौ ॥ एवं कृत्वा कालरूपं त्रिनेत्रो यज्ञं क्रोधान्मार्गणैराजघान । विद्धश्चासौ वेदनाबुद्धियुक्तः खे सन्तस्थौ तारकाभिश्चिताङ्गः ॥” इति वामनपुराणे ५ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=महादेवः&oldid=156862" इत्यस्माद् प्रतिप्राप्तम्