सामग्री पर जाएँ

महाद्रावक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाद्रावकः, पुं, (द्रावयति रोगानिति । द्रु + णिच् + ण्वुल् । महांश्चासौ द्रावकश्चेति ।) औषध- विशेषः । द्रावक इति भाषा । यथा, -- “यवक्षारस्य भागौ द्वौ स्फटिकारेस्त्रयो मताः । एकीकृत्य प्रपिष्यापि मूत्रैर्व्वत्सतरीभवैः ॥ शुष्कं कृत्वा क्षिपेत् पात्रे सैसके वस्त्रलेपिते । अन्यसीसकपात्रन्तु द्विमुखं मेलयेद्बुधः ॥ वृद्धवैद्योपदेशेन पचेत् पात्रस्थमौषधम् । ततो ज्वालाधतः स्थाप्यं पात्रान्यं लभते रसम् ॥ ततो रसं विनिष्कृष्य स्थापयेत् स्निग्धभाजने । लवङ्गेन वटीं कुर्य्यादथवा मृतताम्रकैः ॥ प्लीहादिस्थूलरोगेषु दापयेत् रक्तिकां भिषक् । द्रवीकरोति रोगञ्च महाद्रावकसंज्ञकः ॥ श्वित्रे च दद्रुरोगे च प्रलेपं द्रावकस्य च । वह्निवज्ज्वलनं तस्य दधि दत्त्वा प्रलेपयेत् ॥” * ॥ अपि च । “वृषश्चित्रमपामार्गं चिञ्चा कुष्माण्डनाडिका । स्नुही तालस्य पुष्पञ्च वर्षाभूर्व्वेतसं तथा ॥ एतेषां क्षारमाहृत्य लिम्पाकस्वरसेन च । क्षालयित्वा क्षारतोयं वस्त्रपूतञ्च कारयेत् ॥ चण्डातपेन संशोष्य ग्राह्यं तद्द्रवंणोचितम् । एतस्य द्विपलं ग्राह्यं यवक्षारपलद्वयम् ॥ स्फटिकारिपलञ्चैव नरसारपलं तथा । पलार्द्धं सैन्धवं ग्राह्यं टङ्कणं तोलकद्वयम् ॥ कासीसं तोलकञ्चैव मुद्राशङ्खञ्च तोलकम् । दारुमोचं कर्षकञ्च तोलं समुद्रफेनकम् ॥ सर्व्वमेकत्र संचूर्ण्य वकयन्त्रेण साधयेत् । महाद्रावकमेतद्धि योज्यञ्च रसजारणे । हन्ति गुल्मादिकान् रोगान् यकृत्प्लीहोद- राणि च ॥” * ॥ इति भैषज्यरत्नावली ॥ (तथापरञ्च । “शुद्धं काञ्चनमाक्षिकं मृदुतरं कांस्याभिधेय- न्तथा सिन्धूत्थं विमलं रसाञ्जनवरं फेनं स्रवन्तीपतेः । क्षारौ सर्ज्जिकसम्भवौ सुविमलौ भागास्त्व- मीषां समाः सप्तानां सदृशन्तु टङ्गणमिह त्वर्द्धो नृसारः स्मृतः ॥ तत्तुल्या स्फटिकारिका त्रिसदृशः शुद्धो यव- स्याग्रजः काशीशद्वितयं यवाग्रजसमं सञ्चूर्ण्य सर्व्वं न्यसेत् । पात्रे काचमये मृदम्बरवृते सोऽयं महाद्रावको नो वक्तुं प्रभवेदमुष्य नितरां सम्यग्गुणं भूतले ॥ एतद्वल्लचतुष्टयं पिबेदथो शुण्ठ्या लवङ्गेन वा तत्पश्चात् परिवासितं बहुगुणं ताम्बूलकं भक्षयेत् । प्रासङ्ग्य्यात् कथयामि ते शृणु गुणान् कांश्चि- त्तथान्यान् परान् निःशेषं विनिहन्ति तानि चिरजान्यष्टौदराणि ध्रुवम् ॥ गुल्मं पाण्डुहलीमकं सुकठिनामष्ठीलिकां कामलां मन्दाग्निं विषमाग्नितां बहुविधान् शोथांश्च शूलान्यपि ॥” * ॥ इति वैद्यककषायसंग्रहे प्लीहाधिकारे ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाद्रावक/ महा--द्रावक m. a kind of drug L.

"https://sa.wiktionary.org/w/index.php?title=महाद्रावक&oldid=335139" इत्यस्माद् प्रतिप्राप्तम्