महाधनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाधनम्, क्ली, (महत् अनेकं धनं मूल्यत्वेनास्य ।) बहुमूल्यवस्त्रम् । इत्यमरः । २ । ६ । ११३ ॥ सुवर्णम् । सिह्लकम् । इति मेदिनी । ने, २०१ ॥ चारुवस्त्रम् । इति हेमचन्द्रः ॥ कृषिः । इति शब्दरत्नावली ॥ (महदनेकं धनमस्मात् । संग्रामः । इति निघणुः । २ । १७ ॥ यथा, ऋग्वेदे । ८ । ६४ । १२ । “मा नो अस्मिन्महाधने परावर्गभारभृद् यथा ॥” “महाधने संग्रामे ।” इति तद्भाष्ये सायनः ॥ महच्च तद्धनच्चेति । प्रभूतधनम् । यथा, ऋग्- वेदे । १ । ७ । ५ । “इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ॥” “महाधने प्रभूतधननिमित्तम् ।” इति तद्भाष्ये सायनः ॥ बहुमूल्ये, त्रि । यथा, किरातार्ज्जु- नीये । १ । ३८ । “पुराधिरूढं शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः । अदभ्रदर्भामधिशय्य संस्थलीं जहासि निद्रामशिवः शिवारुतैः ॥”) अतिशयधनयुक्ते, च त्रि ॥
