सामग्री पर जाएँ

महानस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महानसम्, क्ली, (महच्च तत् अनश्चेति । + “अनोऽश्मायःसरसां जातिसंज्ञयोः ।” ५ । ४ । ९४ । इति संज्ञायां टच् । “आन्महतः समानाधिकरणजातीययोः ।” ६ । ३ । ४६ । इति महत आकारादेशः ।) रन्धनगृहम् । तत्पर्य्यायः । रसवती २ पाकस्थानम् ३ । इत्य- मरः । २ । ९ । २७ ॥ (तथास्य लक्षणं यथा, -- “प्रशस्तदिग्देशकृतं शुचिभाण्डं महच्छुचि । सजालकं गवाक्षाढ्यमात्मवर्गनिषेवितम् ॥ विकक्षसृष्टसंसृष्टं सवितानं कृतार्च्चनम् । परीक्षितस्त्रीपुरुषं भवेच्चापि महानसम् ॥ तत्राध्यक्षं नियुञ्जीत प्रायो वैद्यगुणान्वितम् । शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः ॥ सविभक्ताः सुमनसो नीचकेशनखाः स्थिराः । स्नाता दृढं संयमिनः कृतोष्णीषाः सुसंयुताः ॥ तस्य चाज्ञा विधेयाः स्युर्व्विविधाः परि- कर्म्मिणः । आहारस्थितयश्चापि भवन्ति प्राणिनो यतः ॥ तस्मान्महानसे वैद्यः प्रमादरहितो भवेत् । माहानसिकवोढारः सौपौदनिकपौपिकाः ॥ भवेयुर्वैद्यवशगा ये चाप्यन्ये तु केचन ॥” इति सुश्रुते कल्पस्थाने प्रथमेऽध्याये ॥) तद्विवरणं यथा, -- “आग्नेय्यां दिशि कर्त्तव्यमावासस्य महानसम् । गवाक्षजालमार्गाय मूर्द्धभित्त्युपलेपितम् ॥ चुल्ली तत्र प्रकर्त्तव्या पूर्ब्बपश्चिममायता । मृण्मयादीनि भाण्डानि क्षालितानि च वारिणा ॥ तेषु यत् पच्यते द्रव्यं गुणवत् सर्व्वसम्मतम् । मृदभावे पचेल्लौहे चक्षुरर्शोविकारजित् ॥ कांस्यजे पाचितं यद्धि तद्धितं मतिदं शुचि । यच्च ताम्रमये सिद्धं न रुच्यं त्वम्लपित्तकृत् ॥ सौवर्णे राजते पाच्यमाढ्यभूमिभृतां गृहे । तत्पात्रं सर्व्वदोषघ्नं धिषणोत्सवदायकम् ॥” अथ महानसोपयोग्योपकरणानि । “वस्तूनि भोजनार्हाणि विविधानि पुनः पुनः । सर्व्वाणि गुणयुक्तानि स्थापितानि महानसे ॥ दास्याप्तमार्ज्जनी वाढा पूतहण्डी सुकूर्च्चिका । कर्षणी वैणवं पात्रं जलपूर्णस्त्वलिञ्जरः ॥ वह्निसंजननो ग्रावः कुद्दालं सुकुठारकः । दारुखण्डानि शुष्काणि हस्तमात्राणि चेन्ध- नम् ॥ अजीर्णान्यनतिस्थूलान्यजन्तून्यमलानि च । तितयुश्चालनी पीठो मुषलं चाप्युदूखलम् ॥ सूर्पलोष्ट्रशिला दर्व्वी चनुरस्रावपट्टिका । संदंशकन्तु युगलं वस्त्रखण्डचतुष्टयम् ॥ नालिका च्छुरिका चैव सुशूलं सुकटाहकम् ॥ वह्निसञ्चालनार्थाय दर्व्वी दीर्घा सुलौहजा ॥ तन्दूरझर्झरी स्रावा तप्तकं दृढवेष्टनी । इत्यादि वस्तुजातं हि युज्यते च महानसे ॥” इति पाकराजेश्वरः ॥ तत्र रक्षणीया जना यथा, -- “सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः । सर्व्वे महानसे धार्य्या लुप्तकेशनखा जनाः ॥” इति मात्स्ये १८९ अध्यायः ॥ महानसोऽपि पुंसि । इत्यमरटीकायां रमा- नाथः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महानस नपुं।

पाकस्थानम्

समानार्थक:रसवती,पाकस्थान,महानस

2।9।27।1।3

समानौ रसवत्यां तु पाकस्थानमहानसे। पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः॥

अवयव : उलूखलम्,शूर्पम्,चालनी,धान्यादिभरणार्थं_वस्त्रादिनानिर्मितस्यूतः,वंशादिनिर्मितभाण्डः,चुल्लिः,भर्जनपात्रम्,मद्यनिर्माणोपयोगिपात्रम्,महाकुम्भः,स्थाली,घटः,पात्रभेदः,पिष्टपाकोपयोगी_पात्रम्,पानपात्रम्,चर्मनिर्मिततैलघृतादिपात्रम्,अल्पतैलघृतादिपात्रम्,पात्रम्,दर्विः,दर्विभेदः,मन्थनपात्रम्,चषकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महानस¦ न॰ महदना संज्ञायाम् अच्। पाकस्थाने अमरः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महानस¦ mn. (-सः-सं) A kitchen. n. (-सं) A heavy carriage. E. महा great, chief, अनस rice or food, टच् added; to which the food is conveyed to be dressed, &c.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महानस/ महा n. ( हा-न्)a heavy waggon or cart , S3rS.

महानस/ महा n. a kitchen (also m. ) Gobh. Ka1tyS3r. MBh. etc.

महानस/ महा m. cooking utensils (?) Ka1tyS3r.

महानस/ महा m. N. of a mountain BhP.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--a boundary hill of शाकद्वीप. भा. V. २०. २६.

"https://sa.wiktionary.org/w/index.php?title=महानस&oldid=434923" इत्यस्माद् प्रतिप्राप्तम्