सामग्री पर जाएँ

महानसम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महानसम्, क्ली, (महच्च तत् अनश्चेति । + “अनोऽश्मायःसरसां जातिसंज्ञयोः ।” ५ । ४ । ९४ । इति संज्ञायां टच् । “आन्महतः समानाधिकरणजातीययोः ।” ६ । ३ । ४६ । इति महत आकारादेशः ।) रन्धनगृहम् । तत्पर्य्यायः । रसवती २ पाकस्थानम् ३ । इत्य- मरः । २ । ९ । २७ ॥ (तथास्य लक्षणं यथा, -- “प्रशस्तदिग्देशकृतं शुचिभाण्डं महच्छुचि । सजालकं गवाक्षाढ्यमात्मवर्गनिषेवितम् ॥ विकक्षसृष्टसंसृष्टं सवितानं कृतार्च्चनम् । परीक्षितस्त्रीपुरुषं भवेच्चापि महानसम् ॥ तत्राध्यक्षं नियुञ्जीत प्रायो वैद्यगुणान्वितम् । शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः ॥ सविभक्ताः सुमनसो नीचकेशनखाः स्थिराः । स्नाता दृढं संयमिनः कृतोष्णीषाः सुसंयुताः ॥ तस्य चाज्ञा विधेयाः स्युर्व्विविधाः परि- कर्म्मिणः । आहारस्थितयश्चापि भवन्ति प्राणिनो यतः ॥ तस्मान्महानसे वैद्यः प्रमादरहितो भवेत् । माहानसिकवोढारः सौपौदनिकपौपिकाः ॥ भवेयुर्वैद्यवशगा ये चाप्यन्ये तु केचन ॥” इति सुश्रुते कल्पस्थाने प्रथमेऽध्याये ॥) तद्विवरणं यथा, -- “आग्नेय्यां दिशि कर्त्तव्यमावासस्य महानसम् । गवाक्षजालमार्गाय मूर्द्धभित्त्युपलेपितम् ॥ चुल्ली तत्र प्रकर्त्तव्या पूर्ब्बपश्चिममायता । मृण्मयादीनि भाण्डानि क्षालितानि च वारिणा ॥ तेषु यत् पच्यते द्रव्यं गुणवत् सर्व्वसम्मतम् । मृदभावे पचेल्लौहे चक्षुरर्शोविकारजित् ॥ कांस्यजे पाचितं यद्धि तद्धितं मतिदं शुचि । यच्च ताम्रमये सिद्धं न रुच्यं त्वम्लपित्तकृत् ॥ सौवर्णे राजते पाच्यमाढ्यभूमिभृतां गृहे । तत्पात्रं सर्व्वदोषघ्नं धिषणोत्सवदायकम् ॥” अथ महानसोपयोग्योपकरणानि । “वस्तूनि भोजनार्हाणि विविधानि पुनः पुनः । सर्व्वाणि गुणयुक्तानि स्थापितानि महानसे ॥ दास्याप्तमार्ज्जनी वाढा पूतहण्डी सुकूर्च्चिका । कर्षणी वैणवं पात्रं जलपूर्णस्त्वलिञ्जरः ॥ वह्निसंजननो ग्रावः कुद्दालं सुकुठारकः । दारुखण्डानि शुष्काणि हस्तमात्राणि चेन्ध- नम् ॥ अजीर्णान्यनतिस्थूलान्यजन्तून्यमलानि च । तितयुश्चालनी पीठो मुषलं चाप्युदूखलम् ॥ सूर्पलोष्ट्रशिला दर्व्वी चनुरस्रावपट्टिका । संदंशकन्तु युगलं वस्त्रखण्डचतुष्टयम् ॥ नालिका च्छुरिका चैव सुशूलं सुकटाहकम् ॥ वह्निसञ्चालनार्थाय दर्व्वी दीर्घा सुलौहजा ॥ तन्दूरझर्झरी स्रावा तप्तकं दृढवेष्टनी । इत्यादि वस्तुजातं हि युज्यते च महानसे ॥” इति पाकराजेश्वरः ॥ तत्र रक्षणीया जना यथा, -- “सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः । सर्व्वे महानसे धार्य्या लुप्तकेशनखा जनाः ॥” इति मात्स्ये १८९ अध्यायः ॥ महानसोऽपि पुंसि । इत्यमरटीकायां रमा- नाथः ॥

"https://sa.wiktionary.org/w/index.php?title=महानसम्&oldid=156895" इत्यस्माद् प्रतिप्राप्तम्