महानिम्ब
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महानिम्बः, पुं, (महांश्चासौ निम्बश्चेति ।) निम्ब- वृक्षविशेषः । घोडा निम इति भाषा । तत्- पर्य्यायः । कैटर्य्यः २ पवनेष्टः ३ पार्व्वतः ४ । इति रत्नमाला ॥ (यथा, -- “मृतसूताभ्रनागञ्च स्वर्णं तुल्यं प्रकल्पयेत् । महानिम्बस्य चूर्णतु चतुर्भिः सममाहरेत् । मधुना लेहयेन्माषं लालामेहप्रशान्तये ॥” इति वैद्यकरसेन्द्रसारसंग्रहे प्रमेहाधिकारे ॥) अस्य गुणाः । परमग्राहित्वम् । कषायत्वम् । अम्लत्वम् । शीतलत्वञ्च । इति राजवल्लभः ॥ (तथास्य पर्य्यायान्तरं गुणाश्च । “महानिम्बः स्मृतोद्रेका रम्यको विषमुष्टिकः । केशामुष्टिनिम्बकश्च कार्म्मुको जीव इत्यपि ॥ महानिम्बो हिमो रूक्षस्तिक्तो ग्राही कषा- यकः । कफपित्तभ्रमच्छर्दिकुष्ठहृल्लासरक्तजित् । प्रमेहश्वासगुल्मार्शो मूषिकाविषनाशनः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महानिम्ब¦ पु॰ कर्म॰। (घोडानिम) वृक्षभेदे रत्नमा॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महानिम्ब¦ m. (-म्बः) A large kind of Nimba tree, (Melia sempervirens.) E. महा great, and निम्ब the Nimba. “घोडानिम् |”
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महानिम्ब/ महा--निम्ब m. Melia Bukajun Sus3r.