महानिशा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महानिशा, स्त्री, (महती घोरा निशा ।) निशामध्यभागः । तत्पर्य्यायः । निशार्द्धः २ निशीथः ३ । इति हेमचन्द्रः । २ । ५९ ॥ * ॥ स्मृत्युक्तमहानिशा सार्द्धप्रहरोपरि प्रहरद्वयम् । “महानिशा तु विज्ञेया मध्यभं प्रहरद्वयम् । तत्र स्नानं न कुर्व्वीत काम्यनैमित्तिकादृते ॥” इति रघुनन्दनभट्टाचार्य्यधृतवचनात् । महानिशापरकालस्य नाडीचतुष्टयस्य पर- दिनादित्वेन तदानीं पूर्ब्बदिवसीयभोजनानुप- पत्तेः । तद्दिनकृत्यलोपापत्तेश्चेति तिथितत्त्वीय- लिखनस्वरसाच्च ॥ * ॥ तत्र भक्षणनिषेधो यथा, -- “यन्मुहूर्त्ते व्यतीते तु रात्रावेव महानिशा । लभते ब्रह्महत्याञ्च तत्र भुक्त्वा च नारद ! ॥ गोमांसविण्मूत्रसमं ताम्बूलञ्च फलं जलम् । पुंसामभक्ष्यं शुद्धायामोदनस्यापि का कथा ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥ तत्र पारणनिषेधो यथा, -- “न रात्रौ पारणं कुर्य्यादृते वै रोहिणीव्रतात् । निशायां पारणं कुर्य्याद्वर्ज्जयित्वा महानिशाम् ॥ महानिशायां प्राप्तायां तिथिभान्तं यदा भवेत् । तृतीयेऽह्नि मुनिश्रेष्ठ ! पारणं कुरुते व्रती ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्ड ८ अध्यायः ॥ देवलोक्ता महानिशा रात्रिमध्यमदण्डद्वया- त्मिका । सा द्वितीयप्रहरशेषदण्डतृतीयप्रहर- प्रथमदण्डरूपा ॥ तस्यां शिवलिङ्गोद्भवो यथा, “माघकृष्णचतुर्द्दश्यामादिदेवो महानिशि । शिवलिङ्गतयोद्भूतः कोटिसूर्य्यसमप्रभः ॥” अत्र । “महानिशा द्वे घटिके रात्रेर्म्मध्यमयामयोः ॥” इति देवलोक्ता महानिशा ॥ घटिका दण्डरूपा । इति तिथ्यादितत्त्वम् ॥ तान्त्रिकमहानिशा यथा, तन्त्रसारे । “गते तु प्रथमे यामे तृतीयप्रहरावधि । महानिशायां जप्तव्यं रात्रिशेषे जपेन्न तु ॥” अपि च । “निशा तु परमेशानि ! सूर्य्ये चास्तमुपागते । प्रहरे च गते रात्रौ घटिके द्वे परे च ये । महानिशा समाख्याता ततश्चातिमहानिशा ॥ अर्द्धरात्रे गते देवि ! पशुभावेन पूजयेत् । दशदण्डे तु या पूजा तत् सर्व्वमक्षयं भवेत् ॥ षष्ठक्रोशे महेशानि ! तत् सर्व्वममृतोपमम् । सप्तमक्रोशके देवि ! सर्व्वं क्षीरोपमं भवेत् ॥ अष्टमक्रोशके देवि ! द्रव्यतुल्यं न संशयः । अतःपरं महेशानि ! विषतुल्यो न संशयः ॥ एतत् सर्व्वं महेशानि ! पशुभावे मयोदितम् । दिव्यवीरमते देवि ! तत्त्वज्ञानेन पूजयेत् ॥ पञ्चतत्त्वं समानीय यदि पूजापरो भवेत् । कालाकालं महेशानि ! विचारं तत्र वर्ज्जयेत् ॥ अर्द्धरात्रगते देवि ! कुलपूजा प्रकीर्त्तिता । भवेत्तन्त्रानुरूपेण सर्व्वं पूजादिकञ्चरेत् ॥ अतिस्नेहेन देवेशि ! तव स्थाने प्रकाशितम् । पशोरग्रे कदाचिद्बै प्रकाशं नैव कारयेत् ॥” इति गुप्तसाधनतन्त्रे ६ पटलः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महानिशा¦ स्त्री
“महानिशा तु विज्ञेया मध्यमप्रहारद्वयम्” इत्युक्ते रात्रेर्मध्यमप्रहरद्वये।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महानिशा¦ f. (-शा) Midnight. E. महा great, and निशा night.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महानिशा/ महा--निशा f. =prec. BrahmaP. Tithya1d. Hcat. etc.
महानिशा/ महा--निशा f. N. of दुर्गाL.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a शक्ती attached to महाकाल. Br. IV. ३२. 9.