महानीलः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महानीलः, पुं, (महान् नीलः नीलवर्णः ।) भृङ्ग- राजः । नागविशेषः । मणिविशेषः । इति मेदिनी । ले, १६१ ॥ (यथा, शिशुपालवधे । १ । १६ । “महामहानीलशिलारुचः पुरो निषेदिवान् कंसकृषः स विष्टरे ॥” “सिंहलस्याकराद्भूता महानीलास्तु ते स्मृताः ॥ इति भगवानगस्त्यः ॥” इति तट्टीकायां मल्लि- नाथः ॥) तस्य लक्षणं यथा, -- “यस्तु वर्णस्य भूयस्त्वात् क्षीरे शतगुणे स्थितः । नीलतां तनुयात् सर्व्वं महानीलः स उच्यते ॥” इति गारुडे ७२ अध्यायः ॥ (गुग्गुलुजातिभेदः । तद्यथा, -- “महिषाक्षो महानीलः कुमुदः पद्म इत्यपि । हिरण्यः पञ्चमो ज्ञेयो गुग्गु लोः पञ्च जातयः ॥ महानीलस्तु विज्ञेयः स्वनामसमलक्षणः । महिषाक्षो महानीलो गजेन्द्रानां हितावुभौ ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ सुमेरोर्दक्षिणपार्श्वस्थपर्व्वतविशेषः । यथा, मार्क- ण्डेये । ५५ । ४ । “शीतार्त्तश्चक्रमुञ्जश्च कुलीरोऽथ सुकङ्कवान् । मणिशैलोऽथ वृषवान् महानीलो भवाचलः ॥”)
