महानुभावः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महानुभावः, त्रि, (महाननुभावो माहात्म्य- मस्य ।) महाशयः । यथा, -- “सुकृती पुण्यवान् धन्यो धर्म्मी च धर्म्मवानपि । महाशयो महेच्छः स्यान्महानुभाव इत्यपि ॥” इति शब्दरत्नावली ॥ (महात्मा । यथा, शिशुपालवधे । १ । १७ । “ग्रहीतुमार्य्यान् परिचर्य्यया मुहु- र्महानुभावा हि नितान्तमर्थिनः ॥”)
