सामग्री पर जाएँ

महापञ्चमूलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महापञ्चमूलम्, क्ली, (पञ्चानां विल्वादिमूलानां समाहारः । ततः महच्च तत् पञ्चमूलञ्चेति ।) बृहत् पञ्चमूलम् । तद्यथा, -- “विल्वोऽग्निमन्थः श्योनाकः काश्मर्य्यः पाटला तथा । सर्व्वैस्तु मिलितैरेतैः स्यान्महापञ्चमूलकम् ॥” इति राजनिर्घण्टः ॥ (यथा, सुश्रुते चिकित्सितस्थाने २० अध्याये । “विनिर्गमार्थं वायोश्च स्वेदयेच्च मुहुर्मुहुः । क्षीरं महापञ्चमूलं मूषिकां चान्त्रवर्ज्जिताम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=महापञ्चमूलम्&oldid=156916" इत्यस्माद् प्रतिप्राप्तम्