सामग्री पर जाएँ

महापथः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महापथः, पुं, (महांश्चासौ पन्थाश्चेति । “आन्म- हत इति ।” ६ । ३ । ४६ । इति महत आकारा- देशः । “ऋक् पूरब्धूःपथामानक्षे ।” ५ । ४ । ७४ । इति समासान्तोऽकारः ।) प्रधानपथः । तत्पर्य्यायः । घण्टापथः २ संसरणम् ३ श्रीपथः ४ राजवर्त्म ५ उपनिष्क्रमणम् ६ उप- निष्करम् ७ । इति हेमचन्द्रः । ४ । ५३ ॥ (यथा, रामायणे । २ । ८० । १९ । “पताका शोभिताः सर्व्वे सुनिर्म्मितमहापथाः ॥” यथा च महाभारते । ५ । ९४ । २० । “संमृष्टसंसिक्तरजः प्रतिपेदे महापथम् ॥” मृत्युपथः । “यात्रायां पथि निद्रायां महच्छब्दो न दीयते ।” इत्यस्य प्रतिप्रसूतार्थवत्त्वात् तथात्वम् । यथा, कथासरित्सागरे । २ । ४३ । “तच्छोकादिन्द्रदत्तस्य पिता यातो महा- पथम् ॥” सुषुम्ना । यथा, हठयोगप्रदीपिकायाम् । ३ । ४ । “सुषुम्ना शून्यपदवी ब्रह्मरन्ध्रं महापथः । श्मशानं शाम्भवी मध्यमार्गश्चेत्येकवाचकाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=महापथः&oldid=156921" इत्यस्माद् प्रतिप्राप्तम्