सामग्री पर जाएँ

महापातकिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महापातकी, [न्] त्रि, (महापातकमस्त्य- स्येति । महापातक + इनिः ।) पञ्चप्रकार- महापातकयुक्तः । स च पतितः । यथा, -- “महापातकिनो ये च पतितास्ते प्रकीर्त्तिताः । पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः ॥ न चाश्रुपातः पिण्डो वा कार्य्यं श्राद्धादिकं क्वचित् । एतानि पतितानान्तु यः करोति विमोहितः ॥ तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर्न चान्यथा ॥” इति शुद्धितत्त्वधृतविष्णुपुराणवचनम् ॥ पारिभाषिकमहापातकी यथा, -- “कृतप्राणप्रतिष्ठाञ्च नीचैर्यां प्रतिमां द्विज ! । दुर्गां न प्रणमेद्यस्तु स महापातकी स्मृतः ॥” इति देवीपुराणे व्यासनारदसंवादः ॥ अपि च । “पितरं मातरं भार्य्यां गुरुपत्नीं गुरुं परम् । यो न पुष्णाति कापट्यात् स महापातकी शिव ! ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः ॥ (यथा च महानिर्व्वाणतन्त्रे । ३ । ९२ । “जातिभेदो न कर्त्तव्यः प्रसादे परमात्मनः । योऽशुद्धबुद्धिं कुरुते स महापातकी भवेत् ॥”)

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महापातकिन्¦ m. (-की) An offender in the highest degree: see the last. E. महापातक great sin, and इनि aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महापातकिन्/ महा--पातकिन् mfn. guilty of a -grgreat crime Mn. Ya1jn5. etc.

"https://sa.wiktionary.org/w/index.php?title=महापातकिन्&oldid=335923" इत्यस्माद् प्रतिप्राप्तम्