महापीलुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महापीलुः, पुं, (पीलति प्रतिष्टभते विषपित्तादिक- मिति । पील + “मृगय्वादयश्च ।” उणा० १ । ३८ । इति कुः । ततो महान् पीलुरिति कर्म्मधारयः ।) पीलुवृक्षविशेषः । तत्पर्य्यायः । बृहत्पीलुः २ महाफलः ३ राजपीलुः ४ महावृक्षः ५ मधुपीलुः ६ । अस्य फलगुणाः । मधुरत्वम् । वृष्यत्वम् । विषनाशित्वम् । पित्तप्रशमनत्वम् । रुच्यत्वम् । आमघ्नत्वम् । दीपनीयकत्वञ्च । इति राजनिर्घण्टः ॥
