सामग्री पर जाएँ

महाप्रभुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाप्रभुः, पुं, (महांश्चासौ प्रभुश्चेति ।) पर- मेश्वरः । यथा, -- “वन्देऽनन्ताद्भुतैश्वर्य्यं श्रीचैतन्यं महाप्रभुम् । नीचोऽपि यत्प्रसादात् स्यात् सदाचारप्रव- र्त्तकः ॥” इति हरिभक्तिविलासे ३ विलासः ॥ “अनन्तमद्भुतञ्चावितर्क्यं ऐश्वर्य्यं प्रभावो यस्य तं यतो महाप्रभुं परमेश्वरम् ।” इति तट्टीकायां जीवगोस्वामी ॥ श्रीचैतन्यः । यथा, -- “सोऽयं नीलगिरीश्वरः सविभवो यात्रा च सा गुण्डिचा ते ते दिग्विदिगागताः सुकृतिनस्तास्ता दिदृक्षार्त्तयः । आरामश्च त एव नन्दनवनश्रीणां तिरस्कारिणः सर्व्वाण्येव महाप्रभुं वत विना शून्यानि मन्या- महे ॥” इति चैतन्यचन्द्रोदयनाटकम् ॥

"https://sa.wiktionary.org/w/index.php?title=महाप्रभुः&oldid=156959" इत्यस्माद् प्रतिप्राप्तम्