सामग्री पर जाएँ

महाप्रलय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाप्रलयः, पुं, (महांश्चासौ प्रलयो जगता- मवसानञ्चेति ।) त्रिलोकनाशः । तत्पर्य्यायः । संहारः २ । इति हलायुधः ॥ तस्य विवरणं यथा, -- श्रीमार्कण्डेय उवाच । “मन्वन्तरं मनोः कालो यावत् पालयते प्रजाः । एको मनुः स कालस्तु मन्वन्तरमिति श्रुतम् । तदेकसप्ततियुगैर्द्देवानामिह जायते । तैश्चतुर्द्दशभिः कल्पो दिनमेकन्तु वेधसः ॥ दिनान्ते वेधसो जाते सुषुप्सा तस्य जायते । योगनिद्रा महामाया समायाति पितामहम् ॥ नाभिपद्मं प्रविश्याथ विष्णोरमिततेजसः । सुखं स शेते भगवान् ब्रह्मा लोकपितामहः ॥ ततो विष्णुः स्वयं भूत्वा रुद्ररूपी जनार्द्दनः पूर्ब्बवन्नाशयामास स सर्व्वं भुवनत्रयम् ॥ वायुना वह्निना सर्व्वं दाहयामास वै यथा । महाप्रलयकालेषु तथा सर्व्वं जगत्त्रयम् ॥ जनं यान्ति प्रतापार्त्ता महर्लोकनिवासिनः । त्रैलोक्यं दाहयामास पीडिता दारुणाग्निना ॥ ततः कालान्तकैर्म्मेघैर्नानावर्णैर्महास्वनैः । समुत्पाद्य महावृष्टिमापूर्य्य भुवनत्रयम् ॥ चलत्तरङ्गैस्तोयौघैराध्रुवस्थानसङ्गतैः । निधाय जठरे लोकानिमांस्त्रीन् स जनार्द्दनः ॥ नागपर्य्यङ्कशयने शेते स परमेश्वरः । शयानं नाभिकमले ब्रह्माणं स जगत्प्रभुः ॥ संस्थाप्य त्रीनिमाल्लोकान् दग्ध्वा दग्ध्वा श्रिया सह । शेते स भोगिशय्यायां ब्रह्मा नारायणात्मकः ॥ योगनिद्रावशं यातस्त्रैलोक्यग्रासवृंहितः ॥ त्रैलोक्यमखिलं दग्धं यदा कालाग्निना तदा । अनन्तः पृथिवीं त्यक्त्वा विष्णोरन्तिकमागतः ॥ तेन त्यक्ता तु पृथिवी क्षणमात्रादधो गता । पतिता कूर्म्मपृष्ठे तु विशीर्णेव तदाभवत् ॥ कूर्म्मोऽपि महतो यत्नाच्चलन्तीं पृथिवीं जले । ब्रह्माण्डं पद्भिराक्रम्य पृष्ठे दध्रे धरां तदा ॥ ब्रह्माण्डखण्डसंयोगाच्चूर्णिता पृथिवी भवेत् । इति तां परिजग्राह कूर्म्मरूपी जनार्द्दनः ॥ चलज्जलौघसंसर्गाच्चलन्त्या धरया तदा । कूर्म्मपृष्ठं बहुतरैर्वरण्डैर्विततीकृतम् ॥ अनन्तस्तत्र गत्वा तु यत्र क्षीरोदसागरः । तत्र स्वयं श्रिया युक्तं सुषुप्सन्तं जनार्द्दनम् ॥ फणया मध्यया दध्रे त्रैलोक्यग्रासवृंहितम् । पूर्ब्बं फणं वितत्योर्द्धं पद्मं कृत्वा महाबलः । विष्णुमाच्छादयामास शेषाख्यः परमेश्वरः ॥ तस्योपधानमकरोदनन्तो दक्षिणां फणाम् । उत्तरां पादयोश्चक्रे उपाधानं महाबलः ॥ तालवृन्तं तदा चक्रे स शेषः पश्चिमां फणाम् । स्वयन्तु वीजयामास शेषरूपी जनार्द्दनम् ॥ शङ्खं चक्रं नन्दकासिमिषुधी द्वे महाबलः । ऐशानयाथ फणया स दध्रे गरुडं तदा ॥ गदां पद्मञ्च शार्ङ्गञ्च तथैव विविधायुधम् । यानि चान्यानि तस्यासन्नाग्नेय्या फणया दधौ ॥ एवं कृत्वा स्वकं कायं शयनीयं तदा हरेः । पृथ्वीमधरकायेन मग्नामाक्रम्य चाम्भसि ॥ त्रैलोक्यब्रह्मसहितं सलक्ष्मीकं जनार्द्दनम् । सोपासङ्गजगद्बीजं जगत्कारणकारणम् ॥ नित्यानन्दं वेदमयं ब्रह्मण्यं परमेश्वरम् । जगत्कारणकर्त्तारं जगत्कारणकारणम् ॥ भूतभव्यभवन्नाथं परापरपतिं हरिम् । दधार शिरसानन्तः स्वयमेव स्वकां तनूम् ॥ एवं ब्रह्मदिनस्यैव प्रमाणेन निशां हरिः । सन्ध्याञ्च समधिप्राप्य शेते नारायणोऽव्ययः ॥ यस्मादयन्तु प्रलयो ब्रह्मणः स्याद्दिने दिने । तस्माद्दैनन्दिनमिति ख्यापयन्ति पुराविदः ॥ व्यतीतायां निशायान्तु ब्रह्मा लोकपितामहः । त्यक्त्वा निद्रां समुत्तस्थौ स पुनः सृष्टये त्विह ॥” इति कालिकापुराणे २७ अध्यायः ॥ न्यायमते जन्यभावानधिकरणकालः । स च चरमध्वंसरूपः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाप्रलय¦ पु॰ कर्म॰। ब्रह्मणो दिनावसाने जायमानःसर्वभूतक्षयः प्रलयः तस्यैव स्वमानेन शतवर्षावसाने जाय-मानस्तु महान् प्रलयः

१ तस्मिन्

२ तदुपलक्षिते जन्य-द्रव्यानधिकरणीभूते काले च।

३ जन्यभावानधिकरणी-भूते काले इत्यन्ये। तत्रप्रमाणाभाव इति नव्यनैयायिकाः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाप्रलय¦ m. (-यः)
1. A destruction of the world, occuring after every period of 4,320,000,000 years.
2. A total destruction of the uni- verse, happening after a period commensurate with the life of BRAHMA4, or 100 years, each day of which is equal to the period first stated, and each night of which is of similar duration; at [Page558-a+ 60] the expiration of this term, the seven Lo4kas, with the saints, gods, and BRAHMA4 himself, are annihilated. E. महा great, प्रलय destruction.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाप्रलय/ महा--प्रलय m. the total annihilation of the universe at the end of a कल्पVP. Ka1d.

महाप्रलय/ महा--प्रलय m. N. of a Hindi wk. RTL. 179.

"https://sa.wiktionary.org/w/index.php?title=महाप्रलय&oldid=336328" इत्यस्माद् प्रतिप्राप्तम्