महाप्रसादः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाप्रसादः, पुं, (महांश्चासौ प्रसादश्चेति ।) विष्णुनैवेद्यादिः । यथा, -- “पादोदकञ्च निर्म्माल्यं नैवेद्यञ्च विशेषतः । महाप्रसाद इत्युक्त्वा ग्राह्यं विष्णोः प्रयत्नतः ॥” इत्येकादशीतत्त्वधृतमत्स्यसूक्तवचनम् ॥ श्रीजगन्नाथस्य महाप्रसादमाहात्म्यं जगन्नाथ- शब्दे द्रष्टव्यम् ॥ अतिशयप्रसन्नता च ॥ (महान् प्रसादोऽस्य । शिवः । यथा, महाभारते । १३ । १७ । १३६ । “महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥”)
