सामग्री पर जाएँ

महाप्रस्थानगमन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाप्रस्थानगमनम्, क्ली, (प्रस्थीयते अस्मिन्निति । प्र + स्था + ल्युट् । महत् प्रस्थानं महापथः । तत्र गमनम् ।) महापथगमनम् । तत्तु मरणो- द्देशेन हिमालयपर्य्यन्तप्रयाणम् । तच्च कलौ निषिद्धम् । यथा, बृहन्नारदीये । “समुद्रयात्रास्वीकारः कमण्डलुविधारणम् । द्विजानामसवर्णासु कन्यासूपयमस्तथा ॥ देवरेण सुतोत्पत्तिर्म्मधुपर्के पशोर्व्वधः । मांसादनं तथा श्राद्धे वानप्रस्थाश्रमन्तथा ॥ दत्तायाश्चैव कन्यायाः पुनर्द्दानं वरस्य च । दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्वमेधकौ ॥ महाप्रस्थानगमनं गोमेधञ्च तथा मखम् । इमान् धर्म्मान् कलियुगे वर्ज्यानाहुर्म्मनी- षिणः ॥” इत्युद्वाहतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=महाप्रस्थानगमन&oldid=156964" इत्यस्माद् प्रतिप्राप्तम्