सामग्री पर जाएँ

महाभूतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाभूतम्, क्ली, (महत् भूतम् । पञ्चतन्मात्रेभ्यः स्थौल्यादस्य तथात्वम् ।) पृथिव्यादिपञ्चभूतम् । यथा, -- “महाभूतानि पञ्चैव खानिलाग्न्यम्बुभूमिभिः ॥” इति शब्दचन्द्रिका ॥ (अस्य विषय उत्पत्तिश्च यथा, -- “तन्मात्रेभ्यो वियद्वायुवह्निवायुवसुन्धराः । एतानि पञ्च जायन्ते महाभूतानि तत्क्रमात् ॥” एकोत्तरपरिवृद्ध्या वियदादयो जायन्त इत्यर्थः । तद्यथा । शब्दतन्मात्राच्छब्दगुणं वियज्जायते । शब्दतन्मात्रसहितात् स्पर्शतन्मात्राच्छब्दस्पर्श- गुणो वायुर्ज्जायते । शब्दतन्मात्रस्पर्शतन्मात्र- सहितात् रूपतन्मात्राच्छब्दस्पर्शरूपगुणो वह्नि- र्ज्जायते । शब्दतन्मात्रस्पर्शतन्मात्ररूपतन्मात्र- सहिताद्रसतन्मात्राच्छब्दस्पर्शरूपरसगुणं वारि- जायते । शब्दतन्मात्रस्पर्शतन्मात्ररूपतन्मात्र- रसन्मात्रसहिताद्गन्धतन्मात्राच्छब्दस्पर्शरूपरस- गन्धगुणा वसुन्धरा जायते ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥” “मातृजादयोऽप्यस्य महाभूतविकारा एव तत्रास्याकाशात्मकं शब्दः श्रोत्रं लाघवं सौक्ष्म्यं विवेकश्च । वाय्वात्मकं स्पर्शः स्पर्शनञ्च रौक्ष्यं प्रेरणं धातुव्यूहनं चेष्टाश्च शारीर्य्यः । अग्न्यात्मकं रूपं दर्शनं प्रकाशः पक्तिरौष्ण्यञ्च । अबात्मकं रसो रसनं शैत्यं मार्द्दवः स्नेहः क्लेदश्च । पृथिव्यात्मको गन्धः घ्राणं गौरवं स्थैर्य्यं मूर्त्तिश्च ।” इति चरके शारीरस्थाने चतुर्थेऽध्याये ॥ सिद्धादयः महाप्राणिनः । यथा, महाभारते । १ । ११९ । ४८ । “रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः ॥”)

"https://sa.wiktionary.org/w/index.php?title=महाभूतम्&oldid=156993" इत्यस्माद् प्रतिप्राप्तम्